|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.1. अध्यायः 001
Mahabharata - Sabha Parva - Chapter Topics
मयस्यार्जुनम्प्रति प्रत्युपकारप्रार्थना॥ 1॥ कृष्णे उपकृते अहमुपकृत मयम्प्रति अर्जुनस्योक्तिः॥ 2॥ कृष्णाज्ञय मयेन सभानिर्माणारम्भः॥ 3॥
Mahabharata - Sabha Parva - Chapter Text
॥ श्रीवेदव्यासाय नमः॥ 2-1-0x(1373)(11255)
`नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं चैव (व्यासं)ततो जयमुदीरयेत्॥ 2-1-1(11256)
जनमेजय उवाच। 2-1-2x(1374)
अर्जुनो जयतां श्रेष्ठो मोचयित्वा मयं तदा।
किं चकार महातेजास्तन्मे ब्रूहि द्विजोत्तम ॥ 2-1-2(11257)
वैशम्पायन उवाच। 2-1-3x(1375)
शृणु राजन्नवहितश्चरितं पूर्वकस्य ते।
मोक्षयित्वा मयं तत्र पार्थः शस्त्रभृतां वरः॥ 2-1-3(11258)
गाण्डिवं कार्मुकश्रेष्ठं तूणी चाक्षयसायकौ।
दिव्यान्यस्त्राणि राजेन्द्र दुर्लभानि नृपैर्भुवि॥ 2-1-4(11259)
रथध्वजपताकाश्च श्वेताश्वांश्च स वीर्यवान्।
एतानि पावकात्प्राप्य मुदा परमया युतः।
तस्थौ पार्थो महावीर्यस्तदा सह मयेन सः'॥ 2-1-5(11260)
ततोऽब्रवीन्मयः पार्थं वासुदेवस्य सन्निधौ।
`पाण्डवेन परित्रातस्तत्कृतं प्रत्यनुस्मरन्'॥ 2-1-6(11261)
प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः। 2-1-7(11262)
मय उवाच।
अस्माच्च कृष्णात्सङ्क्रुद्धात्पावकाच्च दिधक्षतः॥ 2-1-7x(1376)
त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते।
`अहं हि विश्वकर्मा वै असुराणां परन्तप॥ 2-1-8(11263)
तस्मात्ते विस्मयं किञ्चित्कुर्यामन्यैः सुदुष्करम्॥ 2-1-9(11264)
वैशम्पायन उवाच। 2-1-10x(1377)
एवमुक्तो महावीर्यः पार्थो मायाविदं मयम्।
ध्यात्वा मुहूर्तं कौन्तेयः प्रहसन्वाक्यमब्रवीत्'॥ 2-1-10(11265)
कृतमेव त्वया सर्वं स्वस्ति गच्छ महाऽसुर।
प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते॥ 2-1-11(11266)
प्रोपकारादर्थं हि नादास्यामीति मे व्रतम्'। 2-1-12(11267)
उवाच।
युक्तमेतत्त्वयि विभो यदात्थ पुरुषर्षभ॥ 2-1-12x(1378)
प्रीतिपूर्वमहं किञ्चित्कर्तुमिच्छामि तेऽर्जुन।
अहं हि विश्वकर्मा वै दानवानां महाकविः॥ 2-1-13(11268)
`सोऽहं वै त्वत्कृते किञ्चित्कर्तुमिच्छामि पाण्डव।
`दानवानां पुरा पार्थ प्रासादा हि मया कृताः॥ 2-1-14(11269)
रम्याणि सुखगर्भाणि भोगाढ्यानि सहस्रशः।
उद्यानानि च रम्याणि सरांसि विविधानि च॥ 2-1-15(11270)
विचित्राणि च वस्त्राणि कामगानि रथानि च।
नगराणि विशालानि साट्टप्राकारवन्ति च॥ 2-1-16(11271)
वाहनानि च मुख्यानि विचित्राणि सहस्रशः।
बिलानि रमणीयानि सुखयुक्तानि वै भृशम्।
एते कृता मया तस्मादिच्छामि फल्गुन'॥ 2-1-17(11272)
अर्जुन उवाच। 2-1-18x(1379)
प्राणकृच्छ्राद्विनिर्मुक्तमात्मानं मन्यसे मया।
एवं गते न शक्ष्यामि किञ्चित्कारयितुं त्वया॥ 2-1-18(11273)
न चापि तव सङ्कल्पं मोघमिच्छामि दानव।
कृष्णस्य क्रियतां किञ्चित्तथा प्रतिकृतं मयि॥ 2-1-19(11274)
वैशम्पायन उवाच। 2-1-20x(1380)
चोदितो वासुदेवस्तु मयं प्रति नरर्षभ।
मुहूर्तमिव सन्दध्यौ किमयं चोद्यतामिति॥ 2-1-20(11275)
ततो विचिन्त्य मनसा लोकनाथः प्रजापितः।
चोदयामास तं कृष्णः सभा वै क्रियतामिति॥ 2-1-21(11276)
यदि त्वं कर्तुकामोऽसि प्रियं शिल्पवतां वर।
धर्मराजस्य दयितां यादृशीमिह मन्यसे॥ 2-1-22(11277)
यां क्रियां नानुकुर्युस्ते मानवाः प्रेक्ष्य विष्ठिताः।
मनुष्यलोके सकले तादृशीं कुरु वै सभाम्॥ 2-1-23(11278)
यत्र द्विव्यानभिप्रायान्पश्येम विहितांस्त्वया।
आसुरान्मानुपांश्चैव तादृशीं कुरु वै सभाम्॥ 2-1-24(11279)
वैशम्पायन उवाच। 2-1-25x(1381)
प्रतिगृह्य तु तद्वाक्यं सम्प्रहृष्टो मयस्तदा।
विमानप्रतिमां चक्रे पाण्डवस्य शुभां सभाम्॥ 2-1-25(11280)
ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे।
सर्वमेतत्समावेद्य दर्शयामासतुर्मयम्॥ 2-1-26(11281)
तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा।
स तु तां प्रतिजग्राह मयः सत्कृत्य भारत॥ 2-1-27(11282)
स पूर्वदेवचरितं तदा तत्र विशाम्पते।
कथयामास दैतेयः पाण्डुपुत्रेषु भारत॥ 2-1-28(11283)
स कालं कञ्चिदाश्वस्य विश्वकर्मा विचिन्त्य तु।
सभां प्रचकमे कर्तुं पाण्डवानां महात्मनाम्॥ 2-1-29(11284)
अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः।
पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः॥ 2-1-30(11285)
तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः।
धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान्॥ 2-1-31(11286)
सर्वर्तुगुणसम्पन्नां दिव्यरूपां मनोरमाम्।
दशकिष्कुसहस्रां तां मापयामास सर्वतः॥ ॥ 2-1-31(11287)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि प्रथमोऽध्यायः॥ 1॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-1-1 सभाo 2-1-28 पूर्वदेवो वृषपर्वा दानवस्तस्य चरितं बिन्दुसरसि यज्ञकरणादि ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|